Untitled-2
Banner 1.5
Banner-101
Untitled-8

सूचनाः

वैश्विकज्ञानगंगासेवा-ट्रस्ट-वडोदरा,आवासीय-संस्कृतवर्गः ( दिनाङ्कः20/05/2023 तः 30/05/2023 )    

बालसंस्कारवर्गः जून-2021 तः आरब्धः भविष्यति, सीमितबालाः एव प्रवेशं प्राप्स्यन्ति अतः अद्यैव बालसंस्कारे वर्गे प्रवेशं प्राप्नुवन्तु ।    

मासत्रये एव संस्कृतं पठतु, जून-2021 तः नवकक्षा आरब्धा भविष्यति, अद्यैव संस्कृतसम्भाषण-वर्गे प्रवेशं प्राप्नुवन्तु ।    

भगवता श्रीकृष्णेन बोधितां श्रीमद्भगवद्गीतां स्वबालान् पाठयित्वा तेषु संस्कारसिञ्चनं कुर्वन्तु । जून-2021 तः नवकक्षा आरब्धा भविष्यति, अद्यैव गीतावर्गे प्रवेशं प्राप्नुवन्तु ।    

मासत्रये एव भारतीयशास्त्राणां सम्पूर्णज्ञानं प्राप्नुवन्तु, जून-2021 तः नवकक्षा आरब्धा भविष्यति, अद्यैव शास्त्रवर्गे प्रवेशं प्राप्नुवन्तु ।    

विविध-देवानां स्तोत्राणि सरलतया गातुम् उच्चारयितुं च पठन्तु तथा तेषाम् अर्थमपि जानन्तु, जून-2021 तः नवकक्षा आरब्धा भविष्यति, अद्यैव स्तोत्रवर्गे प्रवेशं प्राप्नुवन्तु ।    

परियोजनाः

प्रसारमाध्यमं समाचाराश्च -चलचित्राणि/वीडियो

पुस्तकविक्रयणम्

अस्माकं साहाय्यं करोतु

डाउनलोड

अस्माकं विविध-प्रवृत्तीनां यथा पुस्तकप्रकाशन – शिक्षकप्रशिक्षण – वर्गव्यवस्थादीनां कृते वित्तीयसाहाय्यं कुर्वन्तु ।

सुरक्षितसर्वाधिकाराः / Copyright © 2021

श्रवणकौशलस्य उद्देश्यानि

विद्वान् बहुश्रुतः

अन्यस्य वार्तां ध्यानपूर्वकं श्रोतुम् अभ्यासः करणीयः ।
अन्येन कृतम् उच्चारणं श्रृत्वा शुद्ध-उच्चारणस्य अनुकरणं करणीयम् ।
शुद्ध-सामग्र्याः अर्थज्ञानस्य योग्यता विकसनीया ।
वक्तुः मनोभावं ज्ञातुं निपुणः भवतु ।
ध्वनेः विभेदीकरणं करणस्य क्षमता वर्धनीया ।
छात्रेषु शब्दभण्डारस्य वृद्धिः करणीया ।

सम्भाषणकौशलस्य उद्देश्यानि

श्रुतिमधुरं सम्भाषणम्

स्वभावानां विचाराणाम् अनुभावानां च सरलतया स्पष्टतया च व्यक्तकरणस्य अभ्यासः ।
शुद्ध-उच्चारणम्, उचितस्वरः, योग्यागतिः तथा भावसहितं सम्भाषणम् ।
निर्भयं भूत्वा स्वविचारान् व्यक्तकर्तुं योग्यता ।
परस्परं वार्तालापं कर्तुं योग्यता ।
धाराप्रवाहेण वक्तुं योग्यता ।

पठनकौशलस्य उद्देश्यानि

माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः॥

वर्णमालायाः सर्वाणि अक्षराणि ज्ञात्वा पठतु ।
पठित-सामग्र्याः विचाराः ज्ञातव्याः ।
पठित-सामग्र्यौ स्वमतस्य स्थिरीकरणम् ।
लेखकस्य भावनां स्पष्टतया ज्ञातुं योग्यतायाः विकासः ।

लेखनकौशलस्य उद्देश्यानि

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः ॥

वर्णान् सम्यक्तया लेखनस्य ज्ञानम् ।
सुन्दरस्वच्छं लेखनस्य अभ्यासः ।
शुद्धाक्षर-विन्यासस्य ज्ञानम् ।
वाक्यरचनायाः नियमानां परिचयः ।
विचाराणां तार्किकक्रमेण प्रस्तुतिकरणम् ।
अनुभवानां लेखनम् ।
लिपि-शब्द-सुविचाराणां ज्ञानम् ।

Vaishvik Gyanganga Seva Trust