प्रगतस्तरीय-पुस्तकानि
प्रथमस्तरीय पुस्तकानां परम् अध्ययनाय प्रगतस्तरीयपुस्तकानां प्रकाशनं करिष्यते । प्रगतस्तरे पुस्तकद्वयस्य निर्माणं भविष्यति 1) प्राथमिक-व्याकरणपुस्तकम् 2) प्रगत-व्याकरणपुस्तकम् ।
प्राथमिक-व्याकरणपुस्तकम्
व्याकरणस्य सामान्यज्ञानम् एतस्मात् पुस्तकात् सरलतया आकर्षकतया मनोहरतया च प्रदास्यते । पुस्तके चित्राणि गीतानि संस्कृताभ्यासाश्च समाविष्टाः भविष्यन्ति । एतस्य पुस्तकस्य अध्ययनेन संस्कृतस्य प्राथमिकज्ञानं व्याकरणस्य प्राथमिकसिद्धान्तानां च बोधः भविष्यति । पुस्तकमिदं माध्यमिकस्तरीय-बालानां कृते संस्कृत-सम्भाषणेच्छुकानां कृते च लाभाय भविष्यति ।


