लक्ष्यम्
- संस्कृतं पठितुम् इच्छुकेभ्यः पाठशालानां कृते, भोजनालयानां कृते, निवासनादीनां कृते च भवनानां निर्माणम् ।
- देशे विदेशे च संस्कृतप्रशिक्षणाय वैदिकधर्मप्रचाराय च संस्कृतशिबिराणाम् आयोजनम् ।
- गुजरातस्यविभिन्नस्थानेषु संस्कृतपाठशालार्थं छात्रावासार्थं पुस्तकालयार्थं च भवनानां निर्माणम् ।
- संस्कृत-वैदिकसाहित्ये अनुसन्धानाय विदुषां सङ्गोष्ठीनां प्रतियोगितानां च आयोजनम् ।
- संस्कृते छात्राणां कृते पदवी-पदवीका (डिग्री-डिप्लोमा) पाठ्यक्रमाणाम् आरम्भः ।
- समाजे ये आर्थिकरूपेण असमर्थाः सन्ति तेषां कृते सम्पूर्णतया निःशुल्कनिवास-भोजन-शिक्षादीनां व्यवस्था ।
- चरित्रनिर्माणाय, नैतिक–सांस्कृतिक–उत्थानाय च वेद–गीता–दर्शन–उपनिषद्-व्याकरणादीनां शास्त्राणाम् अध्ययनाय व्यवस्था ।
- अर्हेभ्यः असहाय-छात्रेभ्यः निःशुल्कं वस्त्र–भोजन–अध्ययन–निवासादीनां व्यवस्थां कृत्वा शैक्षणिककेन्द्राणां सञ्चालनम् ।
- साप्ताहिक–पाक्षिक–मासिक–त्रैमासिक-वार्षिकवर्गाणां तथा संस्कृतप्रशिक्षार्थिभ्यः पुरस्काराणां प्रमाणपत्राणां च प्रदानम् ।
- विश्वे आर्थिकशक्तिरूपेण सांस्कृतिकशक्तिरूपेण च भारतस्य स्थापना करणीया, प्रत्येक-भारतीयः सगर्वं जीवेत् तदर्थं वातावरणं निर्मातव्यम् ।
- शिक्षा – स्वास्थ्य – बल – प्रशासन – उद्योग – व्यवसायादीषु विभागेषु दैनन्दिनकार्येषु संस्कृतस्य प्रयोगः भवतु तदर्थं प्रेरणादानम् ।
- समाजे भाषा–जाति–धर्म–क्षेत्र-लिङ्गादीनां भेदभावानां निर्मूलनं वीजीजीएस – ट्रस्ट-इत्यस्य मुख्य-उद्देश्येषु अन्यतमम् अस्ति ।
-
विश्वे पुनः संस्कृतं लोकभोग्यं कर्तुम् आन्दोलननिर्माणं तस्य समर्थनं तथा संस्कृतमाध्यमेन विश्वसभ्यतायाः पुनरूज्जीवनम् ।

