अस्माकं विविध-प्रवृत्तीनां यथा पुस्तकप्रकाशन – शिक्षकप्रशिक्षण – वर्गव्यवस्थादीनां कृते वित्तीयसाहाय्यं कुर्वन्तु ।
अस्माकं विविध-प्रवृत्तीनां यथा पुस्तकप्रकाशन – शिक्षकप्रशिक्षण – वर्गव्यवस्थादीनां कृते वित्तीयसाहाय्यं कुर्वन्तु ।
विद्वान् बहुश्रुतः
अन्यस्य वार्तां ध्यानपूर्वकं श्रोतुम् अभ्यासः करणीयः ।
अन्येन कृतम् उच्चारणं श्रृत्वा शुद्ध-उच्चारणस्य अनुकरणं करणीयम् ।
शुद्ध-सामग्र्याः अर्थज्ञानस्य योग्यता विकसनीया ।
वक्तुः मनोभावं ज्ञातुं निपुणः भवतु ।
ध्वनेः विभेदीकरणं करणस्य क्षमता वर्धनीया ।
छात्रेषु शब्दभण्डारस्य वृद्धिः करणीया ।
श्रुतिमधुरं सम्भाषणम्
स्वभावानां विचाराणाम् अनुभावानां च सरलतया स्पष्टतया च व्यक्तकरणस्य अभ्यासः ।
शुद्ध-उच्चारणम्, उचितस्वरः, योग्यागतिः तथा भावसहितं सम्भाषणम् ।
निर्भयं भूत्वा स्वविचारान् व्यक्तकर्तुं योग्यता ।
परस्परं वार्तालापं कर्तुं योग्यता ।
धाराप्रवाहेण वक्तुं योग्यता ।
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः॥
वर्णमालायाः सर्वाणि अक्षराणि ज्ञात्वा पठतु ।
पठित-सामग्र्याः विचाराः ज्ञातव्याः ।
पठित-सामग्र्यौ स्वमतस्य स्थिरीकरणम् ।
लेखकस्य भावनां स्पष्टतया ज्ञातुं योग्यतायाः विकासः ।
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः ॥
वर्णान् सम्यक्तया लेखनस्य ज्ञानम् ।
सुन्दरस्वच्छं लेखनस्य अभ्यासः ।
शुद्धाक्षर-विन्यासस्य ज्ञानम् ।
वाक्यरचनायाः नियमानां परिचयः ।
विचाराणां तार्किकक्रमेण प्रस्तुतिकरणम् ।
अनुभवानां लेखनम् ।
लिपि-शब्द-सुविचाराणां ज्ञानम् ।