बालसंस्कारवर्गः
बालाः बाल्यकालादेव संस्कारान् संस्कृतं संस्कृतिञ्च प्राप्नुयुः तदर्थं व्यवस्था करणीया किन्तु समाजे तादृशं किमपि नास्ति एतदर्थं वयं बालसंस्कारवर्गस्य आयोजनं कुतवन्तः येन बालानाम् आरम्भकाले एव सम्पूर्ण-मानसिकविकासः भवेत् । एतस्मात् वर्गात् बालानाम् उच्चारणे लाभो भवति । एतस्मिन् वर्गे विशेषतया सुभाषितानि नीतिकथाः संस्कृतगीतानि श्लोकान् शब्द-निर्माणं सामान्ययोगम् इत्यादिकं पाठ्यते । 3-5 वर्षीयबालानां कृते वर्गोऽयम् अस्ति ।
प्राथमिक-बालसंस्कारवर्गः
एतस्यां कक्षायां बालाः लघुशब्दान् व्याकरणं गीतादीन् च पठन्ति, प्राथमिकस्तरीये 6-मासीये वर्गेऽस्मिन् बालाः आनन्देन संस्कृतं पठन्ति ।
प्रगतबालसंस्कारवर्गः
प्रगतकक्षायां बालान् संस्कृतस्य सुभाषितस्य व्याकरणस्य वाक्यनिर्माणस्य च सामान्यम् अध्यापनं कारयामः, एतस्याः कक्षायाः कालावधिः 6-मासाणां भवति ।

