प्राथमिकस्तरीय-पुस्तकानि


प्राथमिकस्तरीय-पुस्तकानि बालानां कृते तथा संस्कृतपठने ये नूतनाः सन्ति तेषां कृते निर्मितानि । प्राथमिकस्तरीय-पुस्तकानां त्रयः भागाः सन्ति 1) गीतापुस्तकम् 2) चित्र पुस्तकानि 3) एकश्लोकीय- कथापुस्तकानि । आहत्य 13 प्राथमिकस्तरीय-पुस्तकानि सन्ति ।

गीतापुस्तकम्

  • गीता भारतीयसंस्कृतेः सारभूता अस्ति, समाजे गीतापूजनस्य आवश्यकता वर्तते, गीता जीवने अवगमनीया पालनीया च ।
  • गीता संस्कृतभाषायाम् अस्ति तथा गीतायां सन्धि-समासादयः भवन्ति अतः उच्चारणे काठिन्यं भवति ।
  • गीतायाः अर्थपरकानि शतशः पुस्तकानि सन्ति किन्तु उच्चारणपरकानां पुस्तकानाम् अभावो वर्तते ।
  • अस्माकं पुस्तके गुजरातीलिपिः आङ्ग्ललिपिः संस्कृतलिपिः (देवनागरी) च सन्ति ।
  • पुस्तकमिदं प्रतिपृष्ठस्य विविधचित्राणां कारणेन आकर्षकं भविष्यति ।

चित्रपुस्तकानि

चित्राणां स्मृतिः चिरकालीना भवति, अतः चित्राणां माध्यमेन भाषाशिक्षणम् आधुनिकशिक्षकाणां मतानुसारं सरलं भवति । अतः वयं चित्रं तस्य विषयकाणि लघु-लघुवाक्यानि च समाविश्य 9 पुस्तकानि निर्मितवन्तः ।

1) पक्षिणः

पुस्तकेऽस्मिन् पक्षिनामानां समावेशो भविष्यति । एतस्मात् पुस्तकात् 10 पक्षिणां नामानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि लाभो भविष्यति ।

2) पशवः

पुस्तकेऽस्मिन् पशुनामानां समावेशो भविष्यति । एतस्मात् पुस्तकात् 10 पशुनामानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि लाभो भविष्यति ।

3) भोजनम्

पुस्तकेऽस्मिन् भोजनसम्बन्धीनां नामानां समावेशो भविष्यति । एतस्मात् पुस्तकात् 10 भोजनपदार्थानां नामानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि लाभो भविष्यति ।

4) शाकानि

पुस्तकेऽस्मिन् शाकनामानां समावेशो भविष्यति । एतस्मात् पुस्तकात् 10 शाकानां नामानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि लाभो भविष्यति ।

5) फलानि

पुस्तकेऽस्मिन् फलनामानां समावेशो भविष्यति । एतस्मात् पुस्तकात् 10 फलनामानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि लाभो भविष्यति ।

6) पुष्पाणि

पुस्तकेऽस्मिन् पुष्पनामानां समावेशो भविष्यति । एतस्मात् पुस्तकात् 10 पुष्पनामानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि लाभो भविष्यति ।

7) क्रियापदानि

पुस्तकेऽस्मिन् क्रियापदानां समावेशो भविष्यति । एतस्मात् पुस्तकात् 10 क्रियापदानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि लाभो भविष्यति ।

8) वस्त्राणि

पुस्तकेऽस्मिन् वस्त्राणां नामानां समावेशो भविष्यति । एतस्मात् पुस्तकात् 10 वस्त्राणां नामानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि
लाभो भविष्यति ।

9) शरीरावयवाः

पुस्तकेऽस्मिन् शरीरावयवानां नामानां समावेशो भविष्यति । एतस्मात् पुस्तकात् शरीरावयवानां नामानां तथा सम्बन्धितानां सरलवाक्यानां ज्ञानं भविष्यति । पुस्तकद्वारा संस्कृते ये नूतनाः सन्ति तेषाम् अपि लाभो भविष्यति ।

एकश्लोकीय-कथापुस्तकानि

एतस्याः शृङ्खलायाः पुस्तकेषु एकेन श्लोकेन सम्पूर्णग्रन्थस्य ज्ञानं भविष्यति । संस्कृते बहवः श्लोकाः सन्ति यस्मिन् एकस्मिन् श्लोके एव सम्रगस्य ग्रन्थस्य कथा समाविष्टा भवति । संस्कृतसाहित्ये कोऽपि कदापि एतादृशं कथापुस्तकं न निर्मितवान् ।

1) रामायणम्

एतस्मिन् पुस्तके  सम्पूर्णं रामायणं एकेन श्लोकेन बोधयिष्यते । पुस्तके एतस्य श्लोकस्य व्याख्या कथासम्बन्धकानि चित्राणि च स्थापयिष्यन्ते । इदं पुस्तकं श्लोकस्य व्याकरणस्य संस्कृतेः च  ज्ञानं प्रदास्यति ।

२) महाभारतम्

एतस्मिन् पुस्तके  सम्पूर्णं महाभारतं एकेन श्लोकेन बोधयिष्यते । पुस्तके एतस्य श्लोकस्य व्याख्या कथासम्बन्धकानि चित्राणि च स्थापयिष्यन्ते । इदं पुस्तकं श्लोकस्य व्याकरणस्य संस्कृतेः च  ज्ञानं प्रदास्यति ।

३) भागवतमहापुराणम्

एतस्मिन् पुस्तके  सम्पूर्णं भागवतमहापुराणं एकेन श्लोकेन बोधयिष्यते । पुस्तके एतस्य श्लोकस्य व्याख्या कथासम्बन्धकानि चित्राणि च स्थापयिष्यन्ते । इदं पुस्तकं श्लोकस्य व्याकरणस्य संस्कृतेः च  ज्ञानं प्रदास्यति ।

सुरक्षितसर्वाधिकाराः / Copyright © 2021

Vaishvik Gyanganga Seva Trust