संस्कृतसम्भाषणवर्गः


Sanskrit Sambhashan Varg

संस्कृतेन सम्भाषणम् अत्यन्तं सरलमस्ति । प्राचीनकाले संस्कृतं भारतस्य व्यवहारभाषा आसीत्, वयं तां स्थितिं पुनः आनेतुं प्रयत्नरताः स्मः । एतस्य वर्गस्य छात्राः अल्पकाले एव धाराप्रवाहेण संस्कृतेन सम्भाषणं कुर्वन्ति । एषः वर्गः 15 वर्षेभ्यः ये ज्येष्ठाः सन्ति तेषां कृते अस्ति । अस्मात् वर्गात् संस्कृतेन लेखनं  संस्कृतेन सम्भाषणं संस्कृतेन चिन्तनं च सरलतया भविष्यति । वर्गस्य विशिष्टतासु व्याकरण-अनुवाद-श्लोकान्वय-सम्भाषण-साहित्यपठन-लेखनादीनां समावेशो भवति ।

प्राथमिकवर्गः

3-मासीये वर्गे संस्कृतस्य व्याकरणस्य च अभ्यासः भवति ।

प्रगतवर्गः

एतस्मिन् 3-मासीयवर्गे संस्कृतसाहित्यस्य व्याकरणस्य च  गहनाभ्यासं कारयामः, तथा अनुवादं व्याख्यां च पाठयामः ।

सुरक्षितसर्वाधिकाराः / Copyright © 2021

Vaishvik Gyanganga Seva Trust