परिचयः

न्यासपरिचयः

संस्कृतस्य सर्वासां भारतीय-भाषाणां विकासे भारतस्य सांस्कृतिकपरम्परायाः संरक्षणे च महत्त्वपूर्णा भूमिका अस्ति । काऽपि भारतीय-भाषा संस्कृतस्य साहाय्येन विना विकसिता न भवत्येव ।
संस्कृतं प्राचीन-विज्ञानस्य सैद्धान्तिकी आधारशिला अस्ति, अतः भारतस्य सर्वाङ्गीण-विकासाय संस्कृतस्य संरक्षणं प्रचारकार्यं च आवश्यकम् ।
वीजीजीएस – ट्रस्ट इत्येषा संस्था भारते विदेशे च संस्कृतशिक्षणस्य विकासाय, संरक्षणाय संवर्धनाय च न्यास (ट्रस्ट)रूपेण 2018तमे वर्षे जूनमासे स्थापिता ।
त्रिबालेभ्यः आरब्धा यात्रा, अद्य हिमालयेन सदृशा दृढा स्थिताऽस्ति । वीजीजीएस – ट्रस्ट न केवलं संस्कृतम् अपितु संस्कृतिम् अपि रक्षति ।
वीजीजीएस-ट्रस्ट भगवद्गीतां भारतीय-शास्त्राणि मूल्यशिक्षणं संस्कृतं च पाठयति ।
न्यासस्य मुख्यालयः वडोदरानगरे अस्ति, किन्तु न्यासकार्यं गुजरातराज्ये वर्धमानं वर्तते, सद्यः वैश्विक – ज्ञानगंगा – सेवा – ट्रस्ट – संस्था वडोदरानगरे तथा वडोदरानगरात्बहिः कार्यरता अस्ति ।
संस्थायाः छात्राः देशस्य विविधेषु स्थानेषु संस्कृताध्ययनं कुर्वन्तः सन्ति यथा – डभोई, छोटाउदेपुर, बोडेली, पादरा, अमदावाद, सूरत, मुंबई तथैव च ऑस्ट्रेलिया, अमेरिका प्रभृतिषु देशेषु अपि पठन्तः सन्ति ।
संस्था माध्यमेन बालाः संस्कृतशिक्षाम् आभासिय-माध्यमेन (ऑनलाइन) अपि स्वीकुर्वन्ति । वैश्विक-ज्ञानगंगा-सेवा-ट्रस्ट एकम् असर्वकारीयं सङ्घटनम् अस्ति यत् भारतीय- संस्कृतिं संरक्षयितुम् इच्छति ।

लक्ष्यम्

संस्कृतं पठितुम् इच्छुकेभ्यः पाठशालानां भोजनालयानां निवासादीनां च भवनानां निर्माणम् ।
देशे विदेशे च संस्कृतप्रशिक्षणाय वैदिकधर्मप्रचाराय च संस्कृतशिबिराणाम् आयोजनम् ।
गुजरातस्यविभिन्नस्थानेषु संस्कृतपाठशालार्थं छात्रावासार्थं पुस्तकालयार्थं च भवनानां निर्माणम् ।
संस्कृत-वैदिकसाहित्ये अनुसन्धानाय विदुषां सङ्गोष्ठीनां प्रतियोगितानां च आयोजनम् ।
संस्कृते छात्राणां कृते पदवी-पदवीका (डिग्री-डिप्लोमा) पाठ्यक्रमाणाम् आरम्भः ।
समाजे ये आर्थिकरूपेण असमर्थाः सन्ति तेषां कृते सम्पूर्णतया निःशुल्कनिवास-भोजन-शिक्षादीनां प्रदानम् ।
चरित्रनिर्माणाय, नैतिक–सांस्कृतिक–उत्थानाय च वेद–गीता–दर्शन–उपनिषद्-व्याकरणादीनां शास्त्राणाम् अध्ययनाय व्यवस्था ।
अर्हेभ्यः असहाय-छात्रेभ्यः निःशुल्कं वस्त्र–भोजन–अध्ययन–निवासादीनां व्यवस्थां कृत्वा शैक्षणिककेन्द्राणां सञ्चालनम् ।
साप्ताहिक–पाक्षिक–मासिक–त्रैमासिक-वार्षिकवर्गाणां संस्कृतप्रशिक्षार्थिभ्यः पुरस्काराणां प्रमाणपत्राणां च प्रदानम् ।
विश्वे आर्थिकशक्तिरूपेण सांस्कृतिकशक्तिरूपेण च भारतस्य स्थापना करणीया, प्रत्येक-भारतीयः सगर्वं जीवेत् तदर्थं वातावरणं निर्मातव्यम् ।
शिक्षा – स्वास्थ्य – बल – प्रशासन – उद्योग – व्यवसायादीषु विभागेषु दैनन्दिनकार्येषु संस्कृतस्य प्रयोगः भवतु तदर्थं प्रेरणादानम् ।
समाजे भाषा–जाति–धर्म–क्षेत्र-लिङ्गादीनां भेदभावानां निर्मूलनं वीजीजीएस – ट्रस्ट-इत्यस्य मुख्य-उद्देश्येषु अन्यतमम् अस्ति ।
विश्वे पुनः संस्कृतं लोकभोग्यं कर्तुम् आन्दोलननिर्माणं तस्य समर्थनं तथा संस्कृतमाध्यमेन विश्वसभ्यतायाः पुनरूज्जीवनम् ।

उद्देश्यानि

अस्माकं उद्देश्यमस्ति यत् संस्कृतक्षेत्रे आधुनिकीकरणं भवतु । संस्कृतस्योपरि समाजस्य सर्वेषां जनानां अधिकारः अस्ति । संस्कृते केवलं धार्मिकसाहित्यमेव न अपितु कला-विज्ञान-दर्शन-जीवनादयः विषयाः अपि सन्ति, अतः तान् विषयान् पुनः समाजे लोकप्रियं कर्तुमिच्छामः ।
वयं वेदवेदाङ्गयोः भारतीयसंस्कृतेः इतिहासस्य योगस्य ध्यानस्य संस्कृतस्य च माध्यमेन सुव्यवहारयुक्तां भारतीयमूल्याधारितां स्वदेशी-आधारितां च शिक्षां प्रदातुम् इच्छामः येन छात्रः स्वजीवने साफल्यं प्राप्नुयात् ।
अस्माकम् उद्देश्यमस्ति यत् कुटुम्बं समाजं राष्ट्रं विश्वं च मानसिक-बौद्धिक-आध्यात्मिक-सामाजिक-स्तरेषु विकसितं कुर्मः ।
कार्यमिदं साम्प्रतकालीनां शिक्षणपद्धतिम् अवलोक्य समाजे मानवतायाः ह्रासः, संस्कृते विस्मरणम्, सत्यनिष्ठायाः अभावः इत्यादयानां परिप्रेक्ष्ये मानवः मानवः भवतु एतदर्थम् आरब्धम् ।
भारतीयसंस्कृतेः इतिहासः अस्मान् सम्यक् बोधयितुं सर्मथः किन्तु इतिहासं शुद्धतया सरलतया च छात्रेभ्यः समाजाय च न पाठ्यते, यदि कामपि संस्कृतिं ज्ञातुमिच्छामः तर्हि तस्याः इतिहासग्रन्थाः पठनीयाः, वयं तदर्थं कार्यं करिष्यामः ।
संस्कृतशिक्षायाः क्रियान्वयेन सह देशस्य विकासाय जाति-पन्थ-वर्ग-धर्मादीनां भेदभावनां विना अध्यात्मवादयुक्तं राष्ट्रवादयुक्तं न्याययुक्तं मूल्याधारितं समाजं स्थापयामः ।

सुरक्षितसर्वाधिकाराः / Copyright © 2021

Vaishvik Gyanganga Seva Trust