न्यासपरिचयः
-
- संस्कृतस्य सर्वासां भारतीय-भाषाणां विकासे भारतस्य सांस्कृतिकपरम्परायाः संरक्षणे च महत्त्वपूर्णा भूमिका अस्ति । काऽपि भारतीय-भाषा संस्कृतस्य साहाय्येन विना विकसिता न भवत्येव ।
- संस्कृतं प्राचीन-विज्ञानस्य सैद्धान्तिकी आधारशिला अस्ति, अतः भारतस्य सर्वाङ्गीण-विकासाय संस्कृतस्य संरक्षणं प्रचारकार्यं च आवश्यकम् ।
- वीजीजीएस – ट्रस्ट इत्येषा संस्था भारते विदेशे च संस्कृतशिक्षणस्य विकासाय, संरक्षणाय संवर्धनाय च न्यास (ट्रस्ट)रूपेण 2018तमे वर्षे जूनमासे स्थापिता ।
- त्रिबालेभ्यः आरब्धा यात्रा, अद्य हिमालयेन सदृशा दृढा स्थिताऽस्ति । वीजीजीएस – ट्रस्ट न केवलं संस्कृतम् अपितु संस्कृतिम् अपि रक्षति ।
- वीजीजीएस-ट्रस्ट भगवद्गीतां भारतीय-शास्त्राणि मूल्यशिक्षणं संस्कृतं च पाठयति ।
- न्यासस्य मुख्यालयः वडोदरानगरे अस्ति, किन्तु न्यासकार्यं गुजरातराज्ये वर्धमानं वर्तते, सद्यः वैश्विक – ज्ञानगंगा – सेवा – ट्रस्ट – संस्था वडोदरानगरे तथा वडोदरानगरात्बहिः कार्यरता अस्ति ।
- संस्थायाः छात्राः देशस्य विविधेषु स्थानेषु संस्कृताध्ययनं कुर्वन्तः सन्ति यथा – डभोई, छोटाउदेपुर, बोडेली, पादरा, अमदावाद, सूरत, मुंबई तथैव च ऑस्ट्रेलिया, अमेरिका प्रभृतिषु देशेषु अपि पठन्तः सन्ति ।
- संस्था माध्यमेन बालाः संस्कृतशिक्षाम् आभासिय-माध्यमेन (ऑनलाइन) अपि स्वीकुर्वन्ति । वैश्विक-ज्ञानगंगा-सेवा-ट्रस्ट एकम् असर्वकारीयं सङ्घटनम् अस्ति यत् भारतीय-संस्कृतिं संरक्षयितुम् इच्छति ।