उद्देश्यानि


  • अस्माकं उद्देश्यमस्ति यत् संस्कृतक्षेत्रे आधुनिकीकरणं भवतु । संस्कृते समाजस्य सर्वेषां जनानां अधिकारः अस्ति । संस्कृते केवलं धार्मिकसाहित्यमेव न अपितु कला-विज्ञान-दर्शन-जीवनादयः विषयाः अपि सन्ति, अतः तान् विषयान् पुनः समाजे लोकप्रियं कर्तुमिच्छामः ।
  • वयं वेदवेदाङ्गयोः भारतीयसंस्कृतेः इतिहासस्य योगस्य ध्यानस्य संस्कृतस्य च माध्यमेन सुव्यवहारयुक्तां भारतीयमूल्याधारितां स्वदेशी-आधारितां च शिक्षां प्रदातुम् इच्छामः येन छात्रः स्वजीवने साफल्यं प्राप्नुयात् ।
  • अस्माकम् उद्देश्यमस्ति यत् कुटुम्बं समाजं राष्ट्रं विश्वं च मानसिक-बौद्धिक-आध्यात्मिक-सामाजिक-स्तरेषु विकसितं कुर्मः ।
  • कार्यमिदं साम्प्रतकालीनां शिक्षणपद्धतिम् अवलोक्य समाजे मानवतायाः ह्रासः, संस्कृते विस्मरणम्, सत्यनिष्ठायाः अभावः इत्यादयानां परिप्रेक्ष्ये मानवः मानवः भवतु एतदर्थम् आरब्धम् ।
  • भारतीयसंस्कृतेः इतिहासः अस्मान् सम्यक् बोधयितुं सर्मथः किन्तु इतिहासं शुद्धतया सरलतया च छात्रेभ्यः समाजाय च न पाठ्यते, यदि कामपि संस्कृतिं ज्ञातुमिच्छामः तर्हि तस्याः इतिहासग्रन्थाः पठनीयाः, वयं तदर्थं कार्यं करिष्यामः ।
  • संस्कृतशिक्षायाः क्रियान्वयेन सह देशस्य विकासाय जाति-पन्थ-वर्ग-धर्मादीनां भेदभावनां विना अध्यात्मवादयुक्तं राष्ट्रवादयुक्तं न्याययुक्तं मूल्याधारितं समाजं स्थापयामः ।

सुरक्षितसर्वाधिकाराः / Copyright © 2021

Vaishvik Gyanganga Seva Trust