पुस्तकप्रकाशनाय प्रस्तावः
वयं प्राचीनग्रन्थेभ्यः संस्कृतसाहित्यस्य आधुनिकीकरणं कर्तुमिच्छामः, वर्तमाने संस्कृतपठनाय यानि पुस्तकानि उपलब्धानि सन्ति तानि आकारदृष्ट्या शैलीदृष्ट्या च प्राचीनानि अरुचिकराणि च सन्ति, अतः वयं सुन्दराणि सरलानि आकर्षकानि वर्णयुक्तानि च पुस्तकानि प्रकाशयितुम् इच्छामः, वयं प्राथमिकस्तरीयानि प्रगतस्तरीयानि च पुस्तकानि निर्मितवन्तः, तेषां विवरणम् अधः प्रदत्तम् अस्ति।
1) प्राथमिकस्तरीय-पुस्तकानि
प्राथमिकस्तरीय-पुस्तकानि बालानां कृते तथा संस्कृतपठने ये नूतनाः सन्ति तेषां कृते निर्मितानि । प्राथमिकस्तरीय-पुस्तकानां त्रयः भागाः सन्ति 1) गीतापुस्तकम् 2) चित्र पुस्तकानि 3) एकश्लोकीय- कथापुस्तकानि । आहत्य 13 प्राथमिकस्तरीय-पुस्तकानि सन्ति ।
2) प्रगतस्तरीय-पुस्तकानि
प्रथमस्तरीय पुस्तकानां परम् अध्ययनाय प्रगतस्तरीयपुस्तकानां प्रकाशनं करिष्यते । प्रगतस्तरे पुस्तकद्वयस्य निर्माणं भविष्यति 1) प्राथमिक-व्याकरणपुस्तकम् 2) प्रगत-व्याकरणपुस्तकम् ।