गीता-ऑडियो- परियोजनार्थं प्रस्तावः
श्रीमद्भगवद्गीता हिन्दुधर्मस्य प्राचीनतमः प्रमुखः पवित्रश्च ग्रन्थः अस्ति । गीता केवलं हिन्दुभ्यः एव नास्ति, गीता तु समस्त-मानवसभ्यतायै अस्ति, तथा विश्वस्य उत्तमाः विचारकाः एतस्याः मार्गदर्शनं प्राप्तवन्तः । हिन्दु-धर्मे विविधानि शास्त्राणि सन्ति किन्तु गीतायाः महत्त्वम् अलौकिकं वर्तते । भगवद्गीता संस्कृतभाषया रचितास्ति, गीतायाम् आहत्य 18 अध्यायाः तथा 700 श्लोकाः सन्ति । संस्थाद्वारा बालेभ्यः सरलतया गीता पाठ्यते ।
- संस्थायां बालैः साकं क्रीडन् संस्कारप्रदानस्य प्रक्रिया आरब्धा तथा एतस्य माध्यमं गीताशिक्षणम् अभवत्, यदि बालाः सरलतया पाठनीयाः बोधनीयाश्च तर्हि तैः साकं बालकमिव चिन्तनीयम् ।
- शिक्षकाणां शिक्षणानुभवेन वयं ज्ञातवन्तः यत् गीतायाः एकमपि संस्करणं बालेभ्यः आकर्षितं कुर्यात् तादृशं नास्ति, गीतायाः एकमपि श्रव्यं (ऑडियो) नास्ति येन ते आन्दिताः भवेयुः ।
- संस्था गीतायाः नूतनां श्रव्यरचनां कर्तुमिच्छति येन बालाः गीतां श्रुत्वा आनन्दिताः भवेयुः ।
- वयं आधुनिक-सङ्गीतेन तथा कर्णप्रिय-रागैः गीताश्रव्यं (ऑडियो) रचयिष्यामः ।
- वयं शुद्ध-उच्चारणेन गीतायाः १८ अध्यायानां रचनां तथा कर्तुमिच्छामः येन बालाः श्रुत्वा प्रसन्नाः भवन्तु ।
- एतं गीता-श्रव्यं (ऑडियो) सन्धि-समासान् विच्छेद्य रिकॉर्ड करिष्यामः येन श्रोतृणाम् उच्चारण-करणे साहाय्यं भविष्यति ।